|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.236. अध्यायः 236
Mahabharata - Vana Parva - Chapter Topics
प्रियोक्तिभिर्द्रौपदीं परिसान्त्वितवत्या सत्यभामया सह श्रीकृष्णेन स्वपुरंप्रति गमनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-236-0x(2585)(25232)
मार्कण्डेयादिभिर्विप्रैः पाण्डवैश्च महात्मभिः।
कथाभिरनुकूलाभिः सह स्तित्वा जनार्दनः ॥ 3-236-1(25233)
ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः।
आरुरुक्षू रथं सत्यामाह्वयामास भारत ॥ 3-236-2(25234)
सत्यभामा ततस्तत्र स्वजित्वा द्रुपदात्मजाम्।
उवाच वचनं हृद्यं यथाभावं समाहितम् ॥ 3-236-3(25235)
कृष्णे माभूत्तवोत्कण्ठा मा व्यथा मा प्रजागरः।
भर्तृभिर्देवसंकाशैर्जितां प्राप्स्यसि मेदिनीम् ॥ 3-236-4(25236)
न ह्येवं शीलसंपन्ना नैवं पूजितलक्षणाः।
प्राप्नुवन्ति चिरं क्लेशं यथा त्वमसितेक्षणे ॥ 3-236-5(25237)
अवश्यं च त्वया भूमिरियं निहतकण्टका।
भर्तृभिः सहभोक्तव्या निर्द्वन्द्वेति श्रुतं मया ॥ 3-236-6(25238)
धार्तराष्ट्रवधं कृत्वावैराणि प्तियात्य च।
युधिष्ठिरस्थां पृथिवीं द्रष्टासि द्रुपदात्मजे ॥ 3-236-7(25239)
यास्ताः प्रव्राजपानां त्वां प्राहसन्दर्पमोहिताः।
ताः क्षिप्रं हतसंकल्पा द्रक्ष्यसि त्वं कुरुस्त्रियः ॥ 3-236-8(25240)
तव दुःखोपपन्नाया यैराचरितमप्रियम्।
विद्धि संप्रस्थितान्सर्वांस्तान्कृष्णे यमसादनम् ॥ 3-236-9(25241)
पुत्रस्ते प्रतिविन्ध्यश्च सुतसोमस्तथाविधः।
श्रुतकर्माऽर्जुनिश्चैव शतानीकश्च नाकुलिः ॥ 3-236-10(25242)
सहदेवाच्च यो जातः श्रुतसेनस्तवात्मजः।
सर्वेकुशलिनो वीराः कृतास्त्राश्च सुतास्तव ॥ 3-236-11(25243)
अभिमन्युरिव प्रीता द्वारवत्यां रता भृशम्।
त्वमिवैषां सुभद्रा च प्रीत्या सर्वात्मना स्थिता ॥ 3-236-12(25244)
प्रीयते तव निर्द्वन्द्वा तेभ्यश्च विगतज्वरा।
दुःखिता तेन दुःखेन सुखेन सुखिता तथा ॥ 3-236-13(25245)
भजेत्सर्वात्मना चैव प्रद्युम्नजननी तथा।
भानुप्रभृतिभिश्चैनान्विशिनष्टि च केशवः ॥ 3-236-14(25246)
भोजनाच्छादने चैषां नित्यं मे श्वशुरः स्थितः।
रामप्रभृतयः सर्वे भजन्त्यन्धकवृष्णयः ॥ 3-236-15(25247)
तुल्यो हिप्रणयस्तेषां प्रद्युम्नस्य च भामिनि।
एवमादि प्रियं सत्यंहृद्यमुक्त्वा मनोनुगम् ॥ 3-236-16(25248)
गमनाय मनश्चक्रेवासुदेवरथं प्रति।
तां कृष्णां कृष्णमहिषी चकाराभिप्रदक्षिणम् ॥ 3-236-17(25249)
आरुरोह रथं शौरेः सत्यभामाऽथ भामिनी।
स्मयित्वातु यदुश्रेष्ठो द्रौपदीं परिसान्त्व्य च।
उपावर्त्य ततः शीघ्रैर्हयैः प्रायात्परंतपः ॥ 3-236-18(25250)
इति श्रीमन्महाभारते अरण्यपर्वणि द्रौपदीसत्यभामासंवादपर्वणि षट्त्रिंशदधिकद्विशततमोऽध्यायः ॥ 236 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-236-2 संविदं संभाषाम् ॥ 3-236-3 स्वजित्वा आश्लिष्य ॥ 3-236-4 कृष्णे हेद्रौपदि ॥ 3-236-6 निर्द्वन्द्वा निष्प्रतिपक्षा ॥ 3-236-16 प्रणयः स्नेहः ॥ 3-236-18 उपावर्त्य पाण्डवनिति शेषः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|